Sukta 5.26
समिधानः सहस्रजिदग्ने धर्माणि पुष्यसि । देवानां दूत उक्थ्यः ॥
स॒मि॒धा॒नः स॑हस्रजि॒दग्ने॒ धर्मा॑णि पुष्यसि । दे॒वानां॑ दू॒त उ॒क्थ्य॑: ॥
samidhānó sahasrajíd agné dhármāṇi puṣyasi | devā́nāṃ dūtá ukthyàḥ ||
Kindled, O Agni, winner of a thousand, thou increasest the laws of the right working; thou art the messenger of the gods, worthy of the inspired word.
स॒म्ऽइ॒ध॒नः । स॒ह॒स्र॒ऽजि॒त् । अग्ने॑ । धर्मा॑णि । पु॒ष्य॒सि॒ । दे॒वाना॑म् । दू॒तः । उ॒क्थ्यः॑ ॥सम्इधनः । सहस्रजित् । अग्ने । धर्माणि । पुष्यसि । देवानाम् । दूतः । उक्थ्यः ॥sam-idhanaḥ | sahasra-jit | agne | dharmāṇi | puṣyasi | devānām | dūtaḥ | ukthyaḥ