Sukta 5.25
यद्वाहिष्ठं तदग्नये बृहदर्च विभावसो । महिषीव त्वद्रयिस्त्वद्वाजा उदीरते ॥
यद्वाहि॑ष्ठं॒ तद॒ग्नये॑ बृ॒हद॑र्च विभावसो । महि॑षीव॒ त्वद्र॒यिस्त्वद्वाजा॒ उदी॑रते ॥
yád vā́hiṣṭhaṃ tád agnáye bṛhád arca vibhāvaso | mahíṣīva tvád rayís tvád vājā́ úd īrate ||
Whatever is most potent for the carrying (of the offering and the soul’s aspiration), that vast hymn chant to Agni, O all-illuminer. From you rise up the riches and the plenitudes of force, like a great queen in her power.
यत् । वाहि॑ष्ठम् । तत् । अ॒ग्नये॑ । बृ॒हत् । अ॒र्च॒ । वि॒भा॒व॒सो॒ इति॑ विभाऽवसो । महि॑षीऽइव । त्वत् । र॒यिः । त्वत् । वाजाः॑ । उत् । ई॒रते ॥यत् । वाहिष्ठम् । तत् । अग्नये । बृहत् । अर्च । विभावसो इति विभावसो । महिषीइव । त्वत् । रयिः । त्वत् । वाजाः । उत् । ईरते ॥yat | vāhiṣṭham | tat | agnaye | bṛhat | arca | vibhāvaso itivibhāvaso | mahiṣī-iva | tvat | rayiḥ | tvat | vājāḥ | ut | īrate