Sukta 5.25
अग्निर्ददाति सत्पतिं सासाह यो युधा नृभिः । अग्निरत्यं रघुष्यदं जेतारमपराजितम् ॥
अ॒ग्निर्द॑दाति॒ सत्प॑तिं सा॒साह॒ यो यु॒धा नृभि॑: । अ॒ग्निरत्यं॑ रघु॒ष्यदं॒ जेता॑र॒मप॑राजितम् ॥
agnír dadāti sát-patiṃ sasā́ha yó yudhā́ nṛ́-bhiḥ | agnír átyaṃ raghu-syádaṃ jétāram áparājitam ||
Agni grants a true lord of the being—one who has prevailed in battle with the heroes; Agni grants the swift coursing steed, a winner unconquered: the powers of victorious movement in the journey.
अ॒ग्निः । द॒दा॒ति॒ । सत्ऽप॑तिम् । स॒साह॑ । यः । यु॒धा । नृऽभिः॑ । अ॒ग्निः । अत्य॑म् । र॒घु॒ऽस्यद॑म् । जेता॑रम् । अप॑राऽजितम् ॥अग्निः । ददाति । सत्पतिम् । ससाह । यः । युधा । नृभिः । अग्निः । अत्यम् । रघुस्यदम् । जेतारम् । अपराजितम् ॥agniḥ | dadāti | sat-patim | sasāha | yaḥ | yudhā | nṛ-bhiḥ | agniḥ | atyam | raghu-syadam | jetāram | aparājitam