Sukta 5.25
अग्निस्तुविश्रवस्तमं तुविब्रह्माणमुत्तमम् । अतूर्तं श्रावयत्पतिं पुत्रं ददाति दाशुषे ॥
अ॒ग्निस्तु॒विश्र॑वस्तमं तु॒विब्र॑ह्माणमुत्त॒मम् । अ॒तूर्तं॑ श्राव॒यत्प॑तिं पु॒त्रं द॑दाति दा॒शुषे॑ ॥
agnís tuviśrávastamaṃ tuví-brahmāṇam ut-tamáṃ | atū́rtaṃ śrāvayát-patiṃ putráṃ dadāti dāśúṣe ||
Agni gives to the giver a son—one most famed, rich in the force of mantra, the highest; unconquered, a lord who makes the hearing of truth resound (in the world and in the soul).
अ॒ग्निः । तु॒विश्र॑वःऽतमम् । तु॒विऽब्र॑ह्माणम् । उ॒त्ऽत॒मम् । अ॒तूर्त॑म् । श्र॒व॒यत्ऽप॑तिम् । पु॒त्रन् । द॒दा॒ति॒ । दा॒शुषे॑ ॥अग्निः । तुविश्रवःतमम् । तुविब्रह्माणम् । उत्तमम् । अतूर्तम् । श्रवयत्पतिम् । पुत्रन् । ददाति । दाशुषे ॥agniḥ | tuviśravaḥ-tamam | tuvi-brahmāṇam | ut-tamam | atūrtam | śravayat-patim | putran | dadāti | dāśuṣe