Sukta 5.25
अग्निर्देवेषु राजत्यग्निर्मर्तेष्वाविशन् । अग्निर्नो हव्यवाहनोऽग्निं धीभिः सपर्यत ॥
अ॒ग्निर्दे॒वेषु॑ राजत्य॒ग्निर्मर्ते॑ष्वावि॒शन् । अ॒ग्निर्नो॑ हव्य॒वाह॑नो॒ऽग्निं धी॒भिः स॑पर्यत ॥
agnír devéṣu rājaty agnír márteṣv āviśán | agnír no havya-vā́hano ’gníṃ dhībhíḥ saparyata ||
Agni shines as king among the gods; Agni enters and dwells among mortals. Agni, our carrier of the offering, is to be served and fulfilled by our thought-powers.
अ॒ग्निः । दे॒वेषु॑ । रा॒ज॒ति॒ । अ॒ग्निः । मर्ते॑षु । आ॒ऽवि॒शन् । अ॒ग्निः । नः॒ । ह॒व्य॒ऽवाह॑नः॑ । अ॒ग्निम् । धी॒भिः । स॒प॒र्य॒त॒ ॥अग्निः । देवेषु । राजति । अग्निः । मर्तेषु । आविशन् । अग्निः । नः । हव्यवाहनः । अग्निम् । धीभिः । सपर्यत ॥agniḥ | deveṣu | rājati | agniḥ | marteṣu | āviśan | agniḥ | naḥ | havya-vāhanaḥ | agnim | dhībhiḥ | saparyata