Sukta 5.25
स नो धीती वरिष्ठया श्रेष्ठया च सुमत्या । अग्ने रायो दिदीहि नः सुवृक्तिभिर्वरेण्य ॥
स नो॑ धी॒ती वरि॑ष्ठया॒ श्रेष्ठ॑या च सुम॒त्या । अग्ने॑ रा॒यो दि॑दीहि नः सुवृ॒क्तिभि॑र्वरेण्य ॥
sa nó dhītí váriṣṭhayā śréṣṭhayā ca su-matyā́ | ágne rāyó didīhi naḥ suvṛ́kti-bhir vareṇya ||
May he—Agni—by the most wide-ranging and the most excellent power of understanding, by the luminous right-mindedness, shine out for us the plenitudes of being; O Agni, worthy of choosing, make these riches blaze forth for us through our well-fashioned utterances.
सः । नः॒ । धी॒ती । वरि॑ष्थया । श्रेष्ठ॑या । च॒ । सुऽम॒त्या । अग्ने॑ । रा॒यः । दि॒दी॒हि॒ । नः॒ । सु॒वृ॒क्तिऽभिः॑ । व॒रे॒ण्य॒ ॥सः । नः । धीती । वरिष्थया । श्रेष्ठया । च । सुमत्या । अग्ने । रायः । दिदीहि । नः । सुवृक्तिभिः । वरेण्य ॥saḥ | naḥ | dhītī | variṣthayā | śreṣṭhayā | ca | su-matyā | agne | rāyaḥ | didīhi | naḥ | suvṛkti-bhiḥ | vareṇya