Sukta 5.25
स हि सत्यो यं पूर्वे चिद्देवासश्चिद्यमीधिरे । होतारं मन्द्रजिह्वमित्सुदीतिभिर्विभावसुम् ॥
स हि स॒त्यो यं पूर्वे॑ चिद्दे॒वास॑श्चि॒द्यमी॑धि॒रे । होता॑रं म॒न्द्रजि॑ह्व॒मित्सु॑दी॒तिभि॑र्वि॒भाव॑सुम् ॥
sá hí satyó yáṃ pū́rve cid devā́saś cid yám ī́dhire | hótāraṃ mandrájihvam ít sudītíbhir vibhā́vasum ||
For he is the true one—him whom even the ancient gods kindled: the Invoker with the rapturous tongue, the all-illumining One with bright kindlings.
सः । हि । स॒त्यः । यम् । पूर्वे॑ । चित् । दे॒वासः॑ । चि॒त् । यम् । ई॒धि॒रे । होता॑रम् । म॒न्द्रऽजि॑ह्वम् । इत् । सु॒दी॒तिऽभिः॑ । वि॒भाऽव॑सुम् ॥सः । हि । सत्यः । यम् । पूर्वे । चित् । देवासः । चित् । यम् । ईधिरे । होतारम् । मन्द्रजिह्वम् । इत् । सुदीतिभिः । विभावसुम् ॥saḥ | hi | satyaḥ | yam | pūrve | cit | devāsaḥ | cit | yam | īdhire | hotāram | mandra-jihvam | it | sudīti-bhiḥ | vibhāvasum