Sukta 5.25
अच्छा वो अग्निमवसे देवं गासि स नो वसुः । रासत्पुत्र ऋषूणामृतावा पर्षति द्विषः ॥
अच्छा॑ वो अ॒ग्निमव॑से दे॒वं गा॑सि॒ स नो॒ वसु॑: । रास॑त्पु॒त्र ऋ॑षू॒णामृ॒तावा॑ पर्षति द्वि॒षः ॥
ácchā vo agním ávase deváṃ gāsi sá no vásuḥ | rāsat putrá ṛṣūṇām ṛtā́vā parṣati dviṣáḥ ||
Straight to the divine Agni for help you go; he, the Good, shall give us his riches. The Son of the seers, established in the Truth, will carry us beyond the hostile powers.
अच्छ॑ । वः॒ । अ॒ग्निम् । अव॑से । दे॒वम् । गा॒सि॒ । सः । नः॒ । वसुः॑ । रास॑त् । पु॒त्रः । ऋ॒षू॒णाम् । ऋ॒तऽवा॑ । प॒र्ष॒ति॒ । द्वि॒षः ॥अच्छ । वः । अग्निम् । अवसे । देवम् । गासि । सः । नः । वसुः । रासत् । पुत्रः । ऋषूणाम् । ऋतवा । पर्षति । द्विषः ॥accha | vaḥ | agnim | avase | devam | gāsi | saḥ | naḥ | vasuḥ | rāsat | putraḥ | ṛṣūṇām | ṛta-vā | parṣati | dviṣaḥ