Sukta 5.22
चिकित्विन्मनसं त्वा देवं मर्तास ऊतये । वरेण्यस्य तेऽवस इयानासो अमन्महि ॥
चि॒कि॒त्विन्म॑नसं त्वा दे॒वं मर्ता॑स ऊ॒तये॑ । वरे॑ण्यस्य॒ तेऽव॑स इया॒नासो॑ अमन्महि ॥
cikitvínmanasaṁ tvā deváṁ martā́sa ūtáye | varéṇyasya te’vása iyānā́so amanmahi ||
You, the Divine with the discerning mind, we mortals have held in thought for your help. Seeking the protection of the One worthy to be chosen, we have turned toward you and consented inwardly.
चि॒कि॒त्वित्ऽम॑नसम् । त्वा॒ । दे॒वम् । मर्ता॑सः । ऊ॒तये॑ । वरे॑ण्यस्य । ते॒ । अव॑सः । इ॒या॒नासः॑ । अ॒म॒न्म॒हि॒ ॥चिकित्वित्मनसम् । त्वा । देवम् । मर्तासः । ऊतये । वरेण्यस्य । ते । अवसः । इयानासः । अमन्महि ॥cikitvit-manasam | tvā | devam | martāsaḥ | ūtaye | vareṇyasya | te | avasaḥ | iyānāsaḥ | amanmahi