Sukta 5.22
न्यग्निं जातवेदसं दधाता देवमृत्विजम् । प्र यज्ञ एत्वानुषगद्या देवव्यचस्तमः ॥
न्य१॒॑ग्निं जा॒तवे॑दसं॒ दधा॑ता दे॒वमृ॒त्विज॑म् । प्र य॒ज्ञ ए॑त्वानु॒षग॒द्या दे॒वव्य॑चस्तमः ॥
ny àgníṁ jātávedasaṁ dádhātā devám ṛtvíjam | prá yajñá étv ānuṣág adyā́ devávyacastamaḥ ||
Set down Agni, Jātavedas, the Divine priest of the seasons. Let the sacrifice move forward in due succession today—he who is most widely spreading among the gods (in his reach), let him lead the way.
नि । अ॒ग्निम् । जा॒तऽवे॑दसम् । दधा॑त । दे॒वम् । ऋ॒त्विज॑म् । प्र । य॒ज्ञः । ए॒तु॒ । आ॒नु॒षक् । अ॒द्य । दे॒वव्य॑चःऽतमः ॥नि । अग्निम् । जातवेदसम् । दधात । देवम् । ऋत्विजम् । प्र । यज्ञः । एतु । आनुषक् । अद्य । देवव्यचःतमः ॥ni | agnim | jāta-vedasam | dadhāta | devam | ṛtvijam | pra | yajñaḥ | etu | ānuṣak | adya | devavyacaḥ-tamaḥ