Sukta 5.22
अग्ने चिकिद्ध्यस्य न इदं वचः सहस्य । तं त्वा सुशिप्र दम्पते स्तोमैर्वर्धन्त्यत्रयो गीर्भिः शुम्भन्त्यत्रयः ॥
अग्ने॑ चिकि॒द्ध्य१॒॑स्य न॑ इ॒दं वच॑: सहस्य । तं त्वा॑ सुशिप्र दम्पते॒ स्तोमै॑र्वर्ध॒न्त्यत्र॑यो गी॒र्भिः शु॑म्भ॒न्त्यत्र॑यः ॥
ágne cikiddhy àsyá na idáṁ vácaḥ sahasya | táṁ tvā suśipra dampate stómair vardhanty átrayo gī́rbhiḥ śumbhanty átrayaḥ ||
O Agni, take knowledge of this our word, O strong one. You, O fair-lipped Lord of the home, the Atris increase by hymns; by inspired utterances the Atris adorn and make you blaze in beauty.
अग्ने॑ । चि॒कि॒द्धि । अ॒स्य । नः॒ । इ॒दम् । वचः॑ । स॒ह॒स्य॒ । तम् । त्वा॒ । सु॒ऽशि॒प्र॒ । द॒म्ऽप॒ते॒ । स्तोमैः॑ । व॒र्ध॒न्ति॒ । अत्र॑यः । गीः॒ऽभिः । शु॒म्भ॒न्ति॒ । अत्र॑यः ॥अग्ने । चिकिद्धि । अस्य । नः । इदम् । वचः । सहस्य । तम् । त्वा । सुशिप्र । दम्पते । स्तोमैः । वर्धन्ति । अत्रयः । गीःभिः । शुम्भन्ति । अत्रयः ॥agne | cikiddhi | asya | naḥ | idam | vacaḥ | sahasya | tam | tvā | su-śipra | dam-pate | stomaiḥ | vardhanti | atrayaḥ | gīḥ-bhiḥ | śumbhanti | atrayaḥ