Sukta 5.19
प्रियं दुग्धं न काम्यमजामि जाम्योः सचा । घर्मो न वाजजठरोऽदब्धः शश्वतो दभः ॥
प्रि॒यं दु॒ग्धं न काम्य॒मजा॑मि जा॒म्योः सचा॑ । घ॒र्मो न वाज॑जठ॒रोऽद॑ब्ध॒: शश्व॑तो॒ दभ॑: ॥
priyáṃ dugdháṃ na kā́myam ajāmi jāmyóḥ sácā | gharmó na vā́jajaṭharo 'dábdhaḥ śáśvato dábhaḥ ||
Like cherished milk, desirable, he is born in the intimacy of kindred powers; like the Gharma he is a belly of plenitude—unbetrayed, unfailing in the everlasting.
प्रि॒यम् । दु॒ग्धम् । न । काम्य॑म् । अजा॑मि । जा॒म्योः । सचा॑ । घ॒र्मः । न । वाज॑ऽजठरः । अद॑ब्धः । शश्व॑तः । दभः॑ ॥प्रियम् । दुग्धम् । न । काम्यम् । अजामि । जाम्योः । सचा । घर्मः । न । वाजजठरः । अदब्धः । शश्वतः । दभः ॥priyam | dugdham | na | kāmyam | ajāmi | jāmyoḥ | sacā | gharmaḥ | na | vāja-jaṭharaḥ | adabdhaḥ | śaśvataḥ | dabhaḥ