Sukta 5.19
आ श्वैत्रेयस्य जन्तवो द्युमद्वर्धन्त कृष्टयः । निष्कग्रीवो बृहदुक्थ एना मध्वा न वाजयुः ॥
आ श्वै॑त्रे॒यस्य॑ ज॒न्तवो॑ द्यु॒मद्व॑र्धन्त कृ॒ष्टय॑: । नि॒ष्कग्री॑वो बृ॒हदु॑क्थ ए॒ना मध्वा॒ न वा॑ज॒युः ॥
ā́ śvaitreyásya jantávo dyumád vardhanta kṛ́ṣṭayaḥ | niṣkágrīvo bṛháduktha enā́ madhvā́ na vājayúḥ ||
Toward Śvaitreya the peoples and the cultivating races increase in luminous strength; the gold-collared one, of the vast utterance—by this he moves like honey, a seeker of plenitude.
आ । श्वै॒त्रे॒यस्य॑ । ज॒न्तवः॑ । द्यु॒ऽमत् । व॒र्ध॒न्त॒ । कृ॒ष्टयः॑ । नि॒ष्कऽग्री॑वः । बृ॒हत्ऽउ॑क्थः । ए॒ना । मध्वा॑ । न । वा॒ज॒ऽयुः ॥आ । श्वैत्रेयस्य । जन्तवः । द्युमत् । वर्धन्त । कृष्टयः । निष्कग्रीवः । बृहत्उक्थः । एना । मध्वा । न । वाजयुः ॥ā | śvaitreyasya | jantavaḥ | dyu-mat | vardhanta | kṛṣṭayaḥ | niṣka-grīvaḥ | bṛhat-ukthaḥ | enā | madhvā | na | vāja-yuḥ