Sukta 5.19
क्रीळन्नो रश्म आ भुवः सं भस्मना वायुना वेविदानः । ता अस्य सन्धृषजो न तिग्माः सुसंशिता वक्ष्यो वक्षणेस्थाः ॥
क्रीळ॑न्नो रश्म॒ आ भु॑व॒: सं भस्म॑ना वा॒युना॒ वेवि॑दानः । ता अ॑स्य सन्धृ॒षजो॒ न ति॒ग्माः सुसं॑शिता व॒क्ष्यो॑ वक्षणे॒स्थाः ॥
krī́ḷanno raśmá ā́ bhuvaḥ sáṃ bhasmánā vāyúnā vevidā́naḥ | tā́ asya sándhṛṣajo na tig्मā́ḥ su-saṃśitā́ vakṣyò vakṣaṇe-sthā́ḥ ||
Playing, O ray, you have come—mingled with ash, with the wind, fully knowing; his forces, like keen-edged assailants, are well-sharpened, poised in the bearing-place.
क्रीळ॑न् । नः॒ । र॒श्मे॒ । आ । भु॒वः॒ । सम् । भस्म॑ना । वा॒युना॑ । वेवि॑दानः । ताः । अ॒स्य॒ । सन् । धृ॒षजः॑ । न । ति॒ग्माः । सुऽसं॑शिताः । व॒क्ष्यः॑ । व॒क्ष॒णे॒ऽस्थाः ॥क्रीळन् । नः । रश्मे । आ । भुवः । सम् । भस्मना । वायुना । वेविदानः । ताः । अस्य । सन् । धृषजः । न । तिग्माः । सुसंशिताः । वक्ष्यः । वक्षणेस्थाः ॥krīḷan | naḥ | raśme | ā | bhuvaḥ | sam | bhasmanā | vāyunā | vevidānaḥ | tāḥ | asya | san | dhṛṣajaḥ | na | tigmāḥ | su-saṃśitāḥ | vakṣyaḥ | vakṣaṇe--sthāḥ