Sukta 5.15
वाजो नु ते शवसस्पात्वन्तमुरुं दोघं धरुणं देव रायः । पदं न तायुर्गुहा दधानो महो राये चितयन्नत्रिमस्पः ॥
वाजो॒ नु ते॒ शव॑सस्पा॒त्वन्त॑मु॒रुं दोघं॑ ध॒रुणं॑ देव रा॒यः । प॒दं न ता॒युर्गुहा॒ दधा॑नो म॒हो रा॒ये चि॒तय॒न्नत्रि॑मस्पः ॥
vā́jo nú te śávasaḥ pā́tv ántam urúṃ dógghaṃ dharúṇaṃ deva rāyáḥ | padáṃ ná tāyúr guhā́ dádhāno mahó rāyé citáyan átrim aspaḥ ||
May the plenitude of your force guard the farthest limit; wide is the milking, the foundation of your divine fullness. Like a traveler who hides a footing in a secret place, you place the step in the cave; awakening the great plenitude, you bring Atri across (out of obscurity).
वाजः॑ । नु । ते॒ । शव॑सः । पा॒तु॒ । अन्त॑म् । उ॒रुम् । दोघ॑म् । ध॒रुण॑म् । दे॒व॒ । रा॒यः । प॒दम् । न । ता॒युः । गुहा॑ । दधा॑नः । म॒हः । रा॒ये । चि॒तय॑न् । अत्रि॑म् । अ॒स्प॒रित्य॑स्पः ॥वाजः । नु । ते । शवसः । पातु । अन्तम् । उरुम् । दोघम् । धरुणम् । देव । रायः । पदम् । न । तायुः । गुहा । दधानः । महः । राये । चितयन् । अत्रिम् । अस्परित्यस्पः ॥vājaḥ | nu | te | śavasaḥ | pātu | antam | urum | dogham | dharuṇam | deva | rāyaḥ | padam | na | tāyuḥ | guhā | dadhānaḥ | mahaḥ | rāye | citayan | atrim | aspar ity aspaḥ