Sukta 5.14
अग्निर्जातो अरोचत घ्नन्दस्यूञ्ज्योतिषा तमः । अविन्दद्गा अपः स्वः ॥
अ॒ग्निर्जा॒तो अ॑रोचत॒ घ्नन्दस्यू॒ञ्ज्योति॑षा॒ तम॑: । अवि॑न्द॒द्गा अ॒पः स्व॑: ॥
agnír jā́to árocata ghnán dasyū́n jyótiṣā támaḥ | ávindad gā́ ápaḥ svàḥ ||
Agni, when he is born within us, shines out; striking down the hostile powers of division, with his light he slays the darkness. He finds again the Rays (cows), the Waters of the being, and the luminous Heaven (svaḥ).
अ॒ग्निः । जा॒तः । अ॒रो॒च॒त॒ । घ्नन् । दस्यू॑न् । ज्योति॑षा । तमः॑ । अवि॑न्दत् । गाः । अ॒पः । स्वः॑ ॥अग्निः । जातः । अरोचत । घ्नन् । दस्यून् । ज्योतिषा । तमः । अविन्दत् । गाः । अपः । स्वः ॥agniḥ | jātaḥ | arocata | ghnan | dasyūn | jyotiṣā | tamaḥ | avindat | gāḥ | apaḥ | svaḥ