Sukta 5.14
तं हि शश्वन्त ईळते स्रुचा देवं घृतश्चुता । अग्निं हव्याय वोळ्हवे ॥
तं हि शश्व॑न्त॒ ईळ॑ते स्रु॒चा दे॒वं घृ॑त॒श्चुता॑ । अ॒ग्निं ह॒व्याय॒ वोळ्ह॑वे ॥
táṃ hí śáśvanta ī́ḷate srucā́ deváṃ ghṛ́ta-ścutā́ | agním havyā́ya vóḷhave ||
For him indeed the ever-striving adore—the god with the ladle that drips with clarified light (ghṛta). Agni they invoke, to carry our offerings: the bearer who transports aspiration to the higher powers.
तम् । हि । शश्व॑न्तः । ईळ॑ते । स्रु॒चा । दे॒वम् । घृ॒त॒ऽश्चुता॑ । अ॒ग्निम् । ह॒व्याय॑ । वोळ्ह॑वे ॥तम् । हि । शश्वन्तः । ईळते । स्रुचा । देवम् । घृतश्चुता । अग्निम् । हव्याय । वोळ्हवे ॥tam | hi | śaśvantaḥ | īḷate | srucā | devam | ghṛta-ścutā | agnim | havyāya | voḷhave