Sukta 5.12
सखायस्ते विषुणा अग्न एते शिवासः सन्तो अशिवा अभूवन् । अधूर्षत स्वयमेते वचोभिॠजूयते वृजिनानि ब्रुवन्तः ॥
सखा॑यस्ते॒ विषु॑णा अग्न ए॒ते शि॒वास॒: सन्तो॒ अशि॑वा अभूवन् । अधू॑र्षत स्व॒यमे॒ते वचो॑भिॠजूय॒ते वृ॑जि॒नानि॑ ब्रु॒वन्त॑: ॥
sákhāyas te víṣuṇā agna eté śivā́saḥ sánto aśívā abhūvan | ádhūrṣata svayám eté vácobhir ṛjúyate vṛjinā́ni bruvántaḥ ||
These comrades of thine, O Agni, though separated, though seeming kindly, became unkind. They rushed forward of themselves with their words, speaking crookedness to one who goes straight.
सखा॑यः । ते॒ । विषु॑णाः । अ॒ग्ने॒ । ए॒ते । शि॒वासः॑ । सन्तः॑ । अशि॑वाः । अ॒भू॒व॒न् । अधू॑र्षत । स्व॒यम् । ए॒ते । वचः॑ऽभिः । ऋ॒जु॒ऽय॒ते । वृ॒जि॒नानि॑ । ब्रु॒वन्तः॑ ॥सखायः । ते । विषुणाः । अग्ने । एते । शिवासः । सन्तः । अशिवाः । अभूवन् । अधूर्षत । स्वयम् । एते । वचःभिः । ऋजुयते । वृजिनानि । ब्रुवन्तः ॥sakhāyaḥ | te | viṣuṇāḥ | agne | ete | śivāsaḥ | santaḥ | aśivāḥ | abhūvan | adhūrṣata | svayam | ete | vacaḥ-bhiḥ | ṛju-yate | vṛjināni | bruvantaḥ