Sukta 5.12
के ते अग्ने रिपवे बन्धनासः के पायवः सनिषन्त द्युमन्तः । के धासिमग्ने अनृतस्य पान्ति क आसतो वचसः सन्ति गोपाः ॥
के ते॑ अग्ने रि॒पवे॒ बन्ध॑नास॒: के पा॒यव॑: सनिषन्त द्यु॒मन्त॑: । के धा॒सिम॑ग्ने॒ अनृ॑तस्य पान्ति॒ क आस॑तो॒ वच॑सः सन्ति गो॒पाः ॥
ké te agne ripáve bándhanāsaḥ ké pā́yavaḥ saniṣanta dyu-mántaḥ | ké dhā́sím agne anṛtásya pānti ká āsato vácasaḥ santi gopā́ḥ ||
Who are they, O Agni, that bind the enemy for thee? Who are the shining guardians that win? Who protect thy portion from the untruth? Who are the herdsmen of the word, guarding it from falsehood?
के । ते॒ । अ॒ग्ने॒ । रि॒पवे॑ । बन्ध॑नासः । के । पा॒यवः॑ । स॒नि॒ष॒न्त॒ । द्यु॒ऽमन्तः॑ । के । धा॒सिम् । अ॒ग्ने॒ । अनृ॑तस्य । पा॒न्ति॒ । के । अस॑तः । वच॑सः । स॒न्ति॒ । गोपाः ॥के । ते । अग्ने । रिपवे । बन्धनासः । के । पायवः । सनिषन्त । द्युमन्तः । के । धासिम् । अग्ने । अनृतस्य । पान्ति । के । असतः । वचसः । सन्ति । गोपाः ॥ke | te | agne | ripave | bandhanāsaḥ | ke | pāyavaḥ | saniṣanta | dyu-mantaḥ | ke | dhāsim | agne | anṛtasya | pānti | ke | asataḥ | vacasaḥ | santi | gopāḥ