Sukta 5.12
यस्ते अग्ने नमसा यज्ञमीट्ट ऋतं स पात्यरुषस्य वृष्णः । तस्य क्षयः पृथुरा साधुरेतु प्रसर्स्राणस्य नहुषस्य शेषः ॥
यस्ते॑ अग्ने॒ नम॑सा य॒ज्ञमीट्ट॑ ऋ॒तं स पा॑त्यरु॒षस्य॒ वृष्ण॑: । तस्य॒ क्षय॑: पृ॒थुरा सा॒धुरे॑तु प्र॒सर्स्रा॑णस्य॒ नहु॑षस्य॒ शेष॑: ॥
yás te agne námasā yajñám ī́ṭṭa ṛtáṃ sá pāty aruṣásya vṛ́ṣṇaḥ | tásya kṣáyaḥ pṛthúr ā́ sādhúr etu prá-sarsrāṇasya náhuṣasya śéṣaḥ ||
Whoever, O Agni, with reverence kindles and serves the sacrifice that is founded on Ṛta—he is guarded by the ardent, impetuous Power (the red Bull of the will). For him let there come a wide and stable dwelling of being; let the rightful remainder of Nahusha—of the ever-pressing human seeker—arrive as a sure support.
यः । ते॒ । अ॒ग्ने॒ । नम॑सा । य॒ज्ञम् । ईट्टे॑ । ऋ॒तम् । सः । पा॒ति॒ । अ॒रु॒षस्य॑ । वृष्णः॑ । तस्य॑ । क्षयः॑ । पृ॒थुः । आ । सा॒धुः । ए॒तु॒ । प्र॒ऽसर्स्रा॑णस्य । नहु॑षस्य । शेषः॑ ॥यः । ते । अग्ने । नमसा । यज्ञम् । ईट्टे । ऋतम् । सः । पाति । अरुषस्य । वृष्णः । तस्य । क्षयः । पृथुः । आ । साधुः । एतु । प्रसर्स्राणस्य । नहुषस्य । शेषः ॥yaḥ | te | agne | namasā | yajñam | īṭe | ṛtam | saḥ | pāti | aruṣasya | vṛṣṇaḥ | tasya | kṣayaḥ | pṛthuḥ | ā | sādhuḥ | etu | pra-sarsrāṇasya | nahuṣasya | śeṣaḥ