Sukta 5.12
कया नो अग्न ऋतयन्नृतेन भुवो नवेदा उचथस्य नव्यः । वेदा मे देव ऋतुपा ऋतूनां नाहं पतिं सनितुरस्य रायः ॥
कया॑ नो अग्न ऋ॒तय॑न्नृ॒तेन॒ भुवो॒ नवे॑दा उ॒चथ॑स्य॒ नव्य॑: । वेदा॑ मे दे॒व ऋ॑तु॒पा ऋ॑तू॒नां नाहं पतिं॑ सनि॒तुर॒स्य रा॒यः ॥
káyā no agne ṛtáyan ṛténa bhúvo návedā ucáthasya návyaḥ | véda me devá ṛtu-pā́ ṛtūnā́ṃ nā́haṃ pátiṃ sanitúr asyá rāyáḥ ||
By what way, O Agni, moving in the Truth by the Truth, wilt thou become for us the ever-new knower of the hymn? The god, the guardian of the seasons, knows for me the seasons; I do not yet win the master of this wealth of fulfillment.
कया॑ । नः॒ । अ॒ग्ने॒ । ऋ॒तय॑न् । ऋ॒तेन॑ । भुवः॑ । नवे॑दाः । उ॒चथ॑स्य । नव्यः॑ । वेद॑ । मे॒ । दे॒वः । ऋ॒तु॒ऽपाः । ऋ॒तू॒नाम् । न । अ॒हम् । पति॑म् । स॒नि॒तुः॒ । अ॒स्य । रा॒यः ॥कया । नः । अग्ने । ऋतयन् । ऋतेन । भुवः । नवेदाः । उचथस्य । नव्यः । वेद । मे । देवः । ऋतुपाः । ऋतूनाम् । न । अहम् । पतिम् । सनितुः । अस्य । रायः ॥kayā | naḥ | agne | ṛtayan | ṛtena | bhuvaḥ | navedāḥ | ucathasya | navyaḥ | veda | me | devaḥ | ṛtu-pāḥ | ṛtūnām | na | aham | patim | sanituḥ | asya | rāyaḥ