Sukta 5.12
ऋतं चिकित्व ऋतमिच्चिकिद्ध्यृतस्य धारा अनु तृन्धि पूर्वीः । नाहं यातुं सहसा न द्वयेन ऋतं सपाम्यरुषस्य वृष्णः ॥
ऋ॒तं चि॑कित्व ऋ॒तमिच्चि॑किद्ध्यृ॒तस्य॒ धारा॒ अनु॑ तृन्धि पू॒र्वीः । नाहं या॒तुं सह॑सा॒ न द्व॒येन॑ ऋ॒तं स॑पाम्यरु॒षस्य॒ वृष्ण॑: ॥
ṛtáṃ cikitva ṛtám íc cíkiddhy ṛtásya dhārā́ ánu tṛndhi pūrvī́ḥ | nā́haṃ yātúṃ sáhasā ná dváyena ṛtáṃ sapāmy aruṣásya vṛ́ṣṇaḥ ||
O knower, know the Truth, know indeed the Truth; cleave thy way along the many ancient streams of the Truth. I cannot reach it by force, nor by divided dual means; I follow and win the Truth of the Ruddy Bull—Agni’s fiery power.
ऋ॒तम् । चि॒कि॒त्वः॒ । ऋ॒तम् । इत् । चि॒कि॒द्धि॒ । ऋ॒तस्य॑ । धाराः॑ । अनु॑ । तृ॒न्धि॒ । पू॒र्वीः । न । अ॒हम् । या॒तुम् । सह॑सा । न । द्व॒येन॑ । ऋ॒तम् । स॒पा॒मि॒ । अ॒रु॒षस्य॑ । वृष्णः॑ ॥ऋतम् । चिकित्वः । ऋतम् । इत् । चिकिद्धि । ऋतस्य । धाराः । अनु । तृन्धि । पूर्वीः । न । अहम् । यातुम् । सहसा । न । द्वयेन । ऋतम् । सपामि । अरुषस्य । वृष्णः ॥ṛtam | cikitvaḥ | ṛtam | it | cikiddhi | ṛtasya | dhārāḥ | anu | tṛndhi | pūrvīḥ | na | aham | yātum | sahasā | na | dvayena | ṛtam | sapāmi | aruṣasya | vṛṣṇaḥ