Sukta 5.11
तुभ्येदमग्ने मधुमत्तमं वचस्तुभ्यं मनीषा इयमस्तु शं हृदे । त्वां गिरः सिन्धुमिवावनीर्महीरा पृणन्ति शवसा वर्धयन्ति च ॥
तुभ्ये॒दम॑ग्ने॒ मधु॑मत्तमं॒ वच॒स्तुभ्यं॑ मनी॒षा इ॒यम॑स्तु॒ शं हृ॒दे । त्वां गिर॒: सिन्धु॑मिवा॒वनी॑र्म॒हीरा पृ॑णन्ति॒ शव॑सा व॒र्धय॑न्ति च ॥
túbhyedám agne mádhu-mattamaṃ vácaḥ túbhyaṃ manīṣā́ iyám astu śáṃ hṛdé | tvā́ṃ gíraḥ síndhum ivā́vanīr mahī́r ā́ pṛṇanti śávasā vardháyanti ca ||
For thee, O Agni, is this most honeyed word; for thee may this thought-beam be peace to the heart. The hymns fill thee as great rivers fill the sea; by force of soul they increase thee and make thee grow.
तुभ्य॑ । इ॒दम् । अ॒ग्ने॒ । मधु॑मत्ऽतमम् । वचः॑ । तुभ्य॑म् । म॒नी॒षा । इ॒यम् । अ॒स्तु॒ । शम् । हृ॒दे । त्वाम् । गिरः॑ । सिन्धु॑म्ऽइव । अ॒वनीः॑ । म॒हीः । आ । पृ॒ण॒न्ति॒ । शव॑सा । व॒र्धय॑न्ति । च॒ ॥तुभ्य । इदम् । अग्ने । मधुमत्तमम् । वचः । तुभ्यम् । मनीषा । इयम् । अस्तु । शम् । हृदे । त्वाम् । गिरः । सिन्धुम्इव । अवनीः । महीः । आ । पृणन्ति । शवसा । वर्धयन्ति । च ॥tubhya | idam | agne | madhumat-tamam | vacaḥ | tubhyam | manīṣā | iyam | astu | śam | hṛde | tvām | giraḥ | sindhum-iva | avanīḥ | mahīḥ | ā | pṛṇanti | śavasā | vardhayanti | ca