Sukta 5.11
त्वामग्ने अङ्गिरसो गुहा हितमन्वविन्दञ्छिश्रियाणं वनेवने । स जायसे मथ्यमानः सहो महत्त्वामाहुः सहसस्पुत्रमङ्गिरः ॥
त्वाम॑ग्ने॒ अङ्गि॑रसो॒ गुहा॑ हि॒तमन्व॑विन्दञ्छिश्रिया॒णं वने॑वने । स जा॑यसे म॒थ्यमा॑न॒: सहो॑ म॒हत्त्वामा॑हु॒: सह॑सस्पु॒त्रम॑ङ्गिरः ॥
tvā́m agne áṅgiraso gúhā hitám ánv avindan śiśriyāṇáṃ váne-vane | sá jāyase mathyámānaḥ sáho mahát tvā́m āhuḥ sáhasaḥ putrám aṅgiraḥ ||
Thee, O Agni, the Angirases found, hidden in the secrecy, resting in every wood. Thou art born by the churning, a great power of force; men call thee the Son of Strength, O Angiras.
त्वाम् । अ॒ग्ने॒ । अङ्गि॑रसः । गुहा॑ । हि॒तम् । अनु॑ । अ॒वि॒न्द॒न् । शि॒श्रि॒या॒णम् । वने॑ऽवने । सः । जा॒य॒से॒ । म॒थ्यमा॑नः । सहः॑ । म॒हत् । त्वाम् । आ॑हुः॑ । सह॑सः । पु॒त्रम् । अ॒ङ्गि॒रः॒ ॥त्वाम् । अग्ने । अङ्गिरसः । गुहा । हितम् । अनु । अविन्दन् । शिश्रियाणम् । वनेवने । सः । जायसे । मथ्यमानः । सहः । महत् । त्वाम् । आहुः । सहसः । पुत्रम् । अङ्गिरः ॥tvām | agne | aṅgirasaḥ | guhā | hitam | anu | avindan | śiśriyāṇam | vane--vane | saḥ | jāyase | mathyamānaḥ | sahaḥ | mahat | tvām | āhuḥ | sahasaḥ | putram | aṅgiraḥ