Sukta 5.11
अग्निर्नो यज्ञमुप वेतु साधुयाग्निं नरो वि भरन्ते गृहेगृहे । अग्निर्दूतो अभवद्धव्यवाहनोऽग्निं वृणाना वृणते कविक्रतुम् ॥
अ॒ग्निर्नो॑ य॒ज्ञमुप॑ वेतु साधु॒याग्निं नरो॒ वि भ॑रन्ते गृ॒हेगृ॑हे । अ॒ग्निर्दू॒तो अ॑भवद्धव्य॒वाह॑नो॒ऽग्निं वृ॑णा॒ना वृ॑णते क॒विक्र॑तुम् ॥
agnír no yajñám úpa vetu sādhu-yā́gníṃ náro ví bharante gṛhé-gṛhe | agnír dūtó abhavad havya-vā́hano ’gníṃ vṛṇānā́ vṛṇate kaví-kratum ||
May Agni come to our sacrifice by the good path. Men bear Agni in every home. Agni has become the messenger and the carrier of the offering; choosing Agni, they choose the seer-will, the intelligence that knows how to act.
अ॒ग्निः । नः॒ । य॒ज्ञम् । उप॑ । वे॒तु॒ । सा॒धु॒ऽया । अ॒ग्निम् । नरः॑ । वि । भ॒र॒न्ते॒ । गृ॒हेऽगृ॑हे । अ॒ग्निः । दू॒तः । अ॒भ॒व॒त् । ह॒व्य॒ऽवाह॑नः । अ॒ग्निम् । वृ॒णा॒नाः । वृ॒ण॒ते॒ । क॒विऽक्र॑तुम् ॥अग्निः । नः । यज्ञम् । उप । वेतु । साधुया । अग्निम् । नरः । वि । भरन्ते । गृहेगृहे । अग्निः । दूतः । अभवत् । हव्यवाहनः । अग्निम् । वृणानाः । वृणते । कविक्रतुम् ॥agniḥ | naḥ | yajñam | upa | vetu | sādhu-yā | agnim | naraḥ | vi | bharante | gṛhe--gṛhe | agniḥ | dūtaḥ | abhavat | havya-vāhanaḥ | agnim | vṛṇānāḥ | vṛṇate | kavi-kratum