Sukta 5.11
यज्ञस्य केतुं प्रथमं पुरोहितमग्निं नरस्त्रिषधस्थे समीधिरे । इन्द्रेण देवैः सरथं स बर्हिषि सीदन्नि होता यजथाय सुक्रतुः ॥
य॒ज्ञस्य॑ के॒तुं प्र॑थ॒मं पु॒रोहि॑तम॒ग्निं नर॑स्त्रिषध॒स्थे समी॑धिरे । इन्द्रे॑ण दे॒वैः स॒रथं॒ स ब॒र्हिषि॒ सीद॒न्नि होता॑ य॒जथा॑य सु॒क्रतु॑: ॥
yajñásya ketúṃ prathamáṃ puróhitam agníṃ náras tri-sadhásthe sam-īdhire | índreṇa deváiḥ saráthaṃ sá bárhiṣi sī́dann ní hotā́ yajáthāya su-krátuḥ ||
Men kindle Agni, the first sign and leader of the inner sacrifice, set in front as the guiding priest in the triple-seated worlds. With Indra and the gods moving in one chariot-force, he takes his seat on the sacred ground within; as the Invoker he settles down for the act of offering, a will of luminous right discernment.
य॒ज्ञस्य॑ । के॒तुम् । प्र॒थ॒मम् । पु॒रःऽहि॑तम् । अ॒ग्निम् । नरः॑ । त्रि॒ऽस॒ध॒स्थे । सम् । ई॒धि॒रे॒ । इन्द्रे॑ण । दे॒वैः । स॒रथ॑म् । सः । ब॒र्हिषि॑ । सीद॑त् । नि । होता॑ । य॒जथा॑य । सु॒ऽक्रतुः॑ ॥यज्ञस्य । केतुम् । प्रथमम् । पुरःहितम् । अग्निम् । नरः । त्रिसधस्थे । सम् । ईधिरे । इन्द्रेण । देवैः । सरथम् । सः । बर्हिषि । सीदत् । नि । होता । यजथाय । सुक्रतुः ॥yajñasya | ketum | prathamam | puraḥ-hitam | agnim | naraḥ | tri-sadhasthe | sam | īdhire | indreṇa | devaiḥ | saratham | saḥ | barhiṣi | sīdat | ni | hotā | yajathāya | su-kratuḥ