Sukta 5.11
जनस्य गोपा अजनिष्ट जागृविरग्निः सुदक्षः सुविताय नव्यसे । घृतप्रतीको बृहता दिविस्पृशा द्युमद्वि भाति भरतेभ्यः शुचिः ॥
जन॑स्य गो॒पा अ॑जनिष्ट॒ जागृ॑विर॒ग्निः सु॒दक्ष॑: सुवि॒ताय॒ नव्य॑से । घृ॒तप्र॑तीको बृह॒ता दि॑वि॒स्पृशा॑ द्यु॒मद्वि भा॑ति भर॒तेभ्य॒: शुचि॑: ॥
jánasya gopā́ ajaniṣṭa jā́gṛvir agníḥ su-dákṣaḥ suvitā́ya návyase | ghṛtá-pratīko bṛhatā́ divi-spṛ́śā dyu-mád ví bhāti bháratebhyaḥ śúciḥ ||
The guardian of the people is born—Agni, wakeful, perfectly skilled—for a new and ever-fresh right leading. With a face of clarified light, vast and touching heaven, he shines out luminous, a pure one for the Bharatas.
जन॑स्य । गो॒पाः । अ॒ज॒नि॒ष्ट॒ । जागृ॑विः । अ॒ग्निः । सु॒ऽदक्षः॑ । सु॒वि॒ताय॑ । नव्य॑से । घृ॒तऽप्र॑तीकः । बृ॒ह॒ता । दि॒वि॒ऽस्पृशा॑ । द्यु॒ऽमत् । वि । भा॒ति॒ । भ॒र॒तेभ्यः॑ । शुचिः॑ ॥जनस्य । गोपाः । अजनिष्ट । जागृविः । अग्निः । सुदक्षः । सुविताय । नव्यसे । घृतप्रतीकः । बृहता । दिविस्पृशा । द्युमत् । वि । भाति । भरतेभ्यः । शुचिः ॥anasya | gopāḥ | ajaniṣṭa | jāgṛviḥ | agniḥ | su-dakṣaḥ | suvitāya | navyase | ghṛta-pratīkaḥ | bṛhatā | divi-spṛśā | dyu-mat | vi | bhāti | bharatebhyaḥ | śuciḥ