Sukta 5.1
मार्जाल्यो मृज्यते स्वे दमूनाः कविप्रशस्तो अतिथिः शिवो नः । सहस्रशृङ्गो वृषभस्तदोजा विश्वाँ अग्ने सहसा प्रास्यन्यान् ॥
मा॒र्जा॒ल्यो॑ मृज्यते॒ स्वे दमू॑नाः कविप्रश॒स्तो अति॑थिः शि॒वो न॑: । स॒हस्र॑शृङ्गो वृष॒भस्तदो॑जा॒ विश्वाँ॑ अग्ने॒ सह॑सा॒ प्रास्य॒न्यान् ॥
mārjā́lyo mṛ́jyate své damū́nāḥ kavi-praśastó átithiḥ śivó naḥ | sahásra-śṛṅgo vṛṣabhás tád-ojā viśvā́n agne sáhasā prā́sya anyā́n ||
The cleanser is cleansed in his own home, the house-lord, praised by seers, our gracious guest. Thousand-horned bull, of that mighty power—O Agni, by thy force drive away all others (that oppose).
मा॒र्जा॒ल्यः॑ । मृ॒ज्य॒ते॒ । स्वे । दमू॑नाः । क॒वि॒ऽप्र॒श॒स्तः । अति॑थिः । शि॒वः । नः॒ । स॒हस्र॑ऽशृङ्गः । वृ॒ष॒भः । तत्ऽओ॑जा । विश्वा॑न् । अ॒ग्ने॒ । सह॑सा । प्र । अ॒सि॒ । अ॒न्यान् ॥मार्जाल्यः । मृज्यते । स्वे । दमूनाः । कविप्रशस्तः । अतिथिः । शिवः । नः । सहस्रशृङ्गः । वृषभः । तत्ओजा । विश्वान् । अग्ने । सहसा । प्र । असि । अन्यान् ॥mārjālyaḥ | mṛjyate | sve | damūnāḥ | kavi-praśastaḥ | atithiḥ | śivaḥ | naḥ | sahasra-śṛṅgaḥ | vṛṣabhaḥ | tat-ojā | viśvān | agne | sahasā | pra | asi | anyān