Sukta 5.1
प्र णु त्यं विप्रमध्वरेषु साधुमग्निं होतारमीळते नमोभिः । आ यस्ततान रोदसी ऋतेन नित्यं मृजन्ति वाजिनं घृतेन ॥
प्र णु त्यं विप्र॑मध्व॒रेषु॑ सा॒धुम॒ग्निं होता॑रमीळते॒ नमो॑भिः । आ यस्त॒तान॒ रोद॑सी ऋ॒तेन॒ नित्यं॑ मृजन्ति वा॒जिनं॑ घृ॒तेन॑ ॥
prá nú tyáṃ vípram adhvaréṣu sā́dhum agníṃ hótāram īḷate námobhiḥ | ā́ yás tatā́na ródasī ṛténa nítyaṃ mṛ́janti vājínaṃ ghṛténa ||
Now they adore with obeisance that inspired and capable Agni, the Hotṛ, in the sacrifices—he who has stretched out Heaven and Earth by Ṛta. Ever they cleanse the bearer of plenitude with streams of clarified light.
प्र । नु । त्यम् । विप्र॑म् । अ॒ध्व॒रेषु॑ । सा॒धुम् । अ॒ग्निम् । होता॑रम् । ई॒ळते॑ । नमः॑ऽभिः । आ । यः । त॒तान॑ । रोद॑सी॒ इति॑ । ऋ॒तेन॑ । नित्य॑म् । मृ॒ज॒न्ति॒ । वा॒जिन॑म् । घृ॒तेन॑ ॥प्र । नु । त्यम् । विप्रम् । अध्वरेषु । साधुम् । अग्निम् । होतारम् । ईळते । नमःभिः । आ । यः । ततान । रोदसी इति । ऋतेन । नित्यम् । मृजन्ति । वाजिनम् । घृतेन ॥pra | nu | tyam | vipram | adhvareṣu | sādhum | agnim | hotāram | īḷate | namaḥ-bhi ḥ | ā | yaḥ | tatāna | rodasī iti | ṛtena | nityam | mṛjanti | vājinam | ghṛtena