Sukta 5.1
अग्निर्होता न्यसीदद्यजीयानुपस्थे मातुः सुरभा उ लोके । युवा कविः पुरुनिष्ठ ऋतावा धर्ता कृष्टीनामुत मध्य इद्धः ॥
अ॒ग्निर्होता॒ न्य॑सीद॒द्यजी॑यानु॒पस्थे॑ मा॒तुः सु॑र॒भा उ॑ लो॒के । युवा॑ क॒विः पु॑रुनि॒ष्ठ ऋ॒तावा॑ ध॒र्ता कृ॑ष्टी॒नामु॒त मध्य॑ इ॒द्धः ॥
agnír hótā ny àsīdad yajī́yān upásthe mātúḥ surabhā́ u loké | yúvā kavíḥ puruniṣṭhá ṛtā́vā dhartā́ kṛṣṭīnā́m utá mádhya iddháḥ ||
Agni the Hotṛ has sat down, most worthy, in the fragrant lap of the Mother in her world. Young, a seer, firmly founded in many seats, a keeper of Ṛta, he is the upholder of the peoples, and kindled in the midst.
अ॒ग्निः । होता॑ । नि । अ॒सी॒द॒त् । यजी॑यान् । उ॒पऽस्थे॑ । मा॒तुः । सु॒र॒भौ । ऊँ॒ इति॑ । लो॒के । युवा॑ । क॒विः । पु॒रु॒निः॒ऽष्ठः । ऋ॒तऽवा॑ । ध॒र्ता । कृ॒ष्टी॒नाम् । उ॒त । मध्ये॑ । इ॒द्धः ॥अग्निः । होता । नि । असीदत् । यजीयान् । उपस्थे । मातुः । सुरभौ । ऊँ इति । लोके । युवा । कविः । पुरुनिःष्ठः । ऋतवा । धर्ता । कृष्टीनाम् । उत । मध्ये । इद्धः ॥agniḥ | hotā | ni | asīdat | yajīyān | upa-sthe | mātuḥ | surabhau | oṃ iti | loke | yuvā | kaviḥ | puruniḥ-ṣṭhaḥ | ṛta-vā | dhartā | kṛṣṭīnām | uta | madhye | iddhaḥ