Sukta 5.1
जनिष्ट हि जेन्यो अग्रे अह्नां हितो हितेष्वरुषो वनेषु । दमेदमे सप्त रत्ना दधानोऽग्निर्होता नि षसादा यजीयान् ॥
जनि॑ष्ट॒ हि जेन्यो॒ अग्रे॒ अह्नां॑ हि॒तो हि॒तेष्व॑रु॒षो वने॑षु । दमे॑दमे स॒प्त रत्ना॒ दधा॑नो॒ऽग्निर्होता॒ नि ष॑सादा॒ यजी॑यान् ॥
jániṣṭa hí jényo ágre áhnāṃ hitó hitéṣv aruṣó váneṣu | dámē-dame saptá rátnā dádhāno 'gnír hótā ní ṣasāda yajī́yān ||
For he is born, the noble one, at the beginning of the days, set in the set places, the ruddy one in the forests. In house after house bearing the seven treasures, Agni the Hotṛ has sat down, most worthy of the offering.
जनि॑ष्ट । हि । जेन्यः॑ । अग्रे॑ । अह्ना॑म् । हि॒तः । हि॒तेषु । अ॒रु॒षः । वने॑षु । दमे॑ऽदमे । स॒प्त । रत्ना॑ । दधा॑नः । अ॒ग्निः । होता॑ । नि । स॒सा॒द॒ । यजी॑यान् ॥जनिष्ट । हि । जेन्यः । अग्रे । अह्नाम् । हितः । हितेषु । अरुषः । वनेषु । दमेदमे । सप्त । रत्ना । दधानः । अग्निः । होता । नि । ससाद । यजीयान् ॥janiṣṭa | hi | jenyaḥ | agre | ahnām | hitaḥ | hiteṣu | aruṣaḥ | vaneṣu | dame--dame | sapta | ratnā | dadhānaḥ | agniḥ | hotā | ni | sasāda | yajīyān