Sukta 5.1
अग्निमच्छा देवयतां मनांसि चक्षूंषीव सूर्ये सं चरन्ति । यदीं सुवाते उषसा विरूपे श्वेतो वाजी जायते अग्रे अह्नाम् ॥
अ॒ग्निमच्छा॑ देवय॒तां मनां॑सि॒ चक्षूं॑षीव॒ सूर्ये॒ सं च॑रन्ति । यदीं॒ सुवा॑ते उ॒षसा॒ विरू॑पे श्वे॒तो वा॒जी जा॑यते॒ अग्रे॒ अह्ना॑म् ॥
agním ácchā deva-yatā́m manā́ṃsi cakṣū́ṃṣīva sū́rye sáṃ caranti | yád īṃ súvāte uṣásā vírūpe śvetó vājī́ jāyate ágre áhnām ||
Toward Agni the god-seeking minds move together, as eyes converge upon the Sun. When the two Dawn-powers, diverse in form, bring him forth, the white steed of plenitude is born at the head of the days.
अ॒ग्निम् । अच्छ॑ । दे॒व॒ऽय॒ताम् । मनां॑सि । चक्षूं॑षीऽइव । सूर्ये॑ । सम् । च॒र॒न्ति॒ । यत् । ई॒म् । सुवा॑ते । उ॒षसा॑ । विरू॑पे॒ इति॒ विऽरू॑पे । श्वे॒तः । वा॒जी । जा॒य॒ते॒ । अग्रे॑ । अह्ना॑म् ॥अग्निम् । अच्छ । देवयताम् । मनांसि । चक्षूंषीइव । सूर्ये । सम् । चरन्ति । यत् । ईम् । सुवाते । उषसा । विरूपे इति विरूपे । श्वेतः । वाजी । जायते । अग्रे । अह्नाम् ॥agnim | accha | deva-yatām | manāṃsi | cakṣūṃṣī-iva | sūrye | sam | caranti | yat | īm | suvāte | uṣasā | virūpeitivi-rūpe | śvetaḥ | vājī | jāyate | agre | ahnām