Sukta 5.1
यदीं गणस्य रशनामजीगः शुचिरङ्क्ते शुचिभिर्गोभिरग्निः । आद्दक्षिणा युज्यते वाजयन्त्युत्तानामूर्ध्वो अधयज्जुहूभिः ॥
यदीं॑ ग॒णस्य॑ रश॒नामजी॑ग॒: शुचि॑रङ्क्ते॒ शुचि॑भि॒र्गोभि॑र॒ग्निः । आद्दक्षि॑णा युज्यते वाज॒यन्त्यु॑त्ता॒नामू॒र्ध्वो अ॑धयज्जु॒हूभि॑: ॥
yád īṃ gaṇásya raśanā́m ájīgar śúcir aṅkte śúcibhir góbhir agníḥ | ā́d dákṣiṇā yujyate vāja-yánty uttānā́m ūrdhvó adhayaj juhū́bhiḥ ||
When he has stirred the girdle of the host, Agni, pure, anoints himself with the pure rays. Then Dakṣiṇā is yoked, bringing plenitude of force; upright, he milks upward the outstretched (powers) with the ladles of offering.
यत् । ई॒म् । ग॒णस्य॑ । र॒श॒नाम् । अजी॑ग॒रिति॑ । शुचिः॑ । अ॒ङ्क्ते॒ । शुचि॑ऽभिः । गोऽभिः॑ । अ॒ग्निः । आत् । दक्षि॑णा । यु॒ज्य॒ते॒ । वा॒ज॒ऽयन्ती॑ । उ॒त्ता॒नाम् । ऊ॒र्ध्वः । अ॒ध॒य॒त् । जु॒हूभिः॑ ॥यत् । ईम् । गणस्य । रशनाम् । अजीगरिति । शुचिः । अङ्क्ते । शुचिभिः । गोभिः । अग्निः । आत् । दक्षिणा । युज्यते । वाजयन्ती । उत्तानाम् । ऊर्ध्वः । अधयत् । जुहूभिः ॥yat | īm | gaṇasya | raśanām | ajīgariti | śuciḥ | aṅkte | śuci-bhiḥ | go--bhiḥ | agniḥ | āt | dakṣiṇā | yujyate | vāja-yantī | uttānām | ūrdhvaḥ | adhayat | juhūbhiḥ