Sukta 5.1
अबोधि होता यजथाय देवानूर्ध्वो अग्निः सुमनाः प्रातरस्थात् । समिद्धस्य रुशददर्शि पाजो महान्देवस्तमसो निरमोचि ॥
अबो॑धि॒ होता॑ य॒जथा॑य दे॒वानू॒र्ध्वो अ॒ग्निः सु॒मना॑: प्रा॒तर॑स्थात् । समि॑द्धस्य॒ रुश॑ददर्शि॒ पाजो॑ म॒हान्दे॒वस्तम॑सो॒ निर॑मोचि ॥
ábodhi hótā yajáthāya devā́n ūrdhvó agníḥ sumánāḥ prā́tar asthāt | samiddhásya rúśad adarśi pā́jo mahā́n devás támāso nír amoci ||
The Offerer has awakened for the sacrifice of the gods; Agni, upright and of glad mind, has stood at the Dawn. The shining might of the kindled One is seen—great is the God who is released from darkness.
अबो॑धि । होता॑ । य॒जथा॑य । दे॒वान् । ऊ॒र्ध्वः । अ॒ग्निः । सु॒ऽमनाः॑ । प्रा॒तः । अ॒स्था॒त् । सम्ऽइ॑द्धस्य । रुश॑त् । अ॒द॒र्शि॒ । पाजः॑ । म॒हान् । दे॒वः । तम॑सः । निः । अ॒मो॒चि॒ ॥अबोधि । होता । यजथाय । देवान् । ऊर्ध्वः । अग्निः । सुमनाः । प्रातः । अस्थात् । सम्इद्धस्य । रुशत् । अदर्शि । पाजः । महान् । देवः । तमसः । निः । अमोचि ॥abodhi | hotā | yajathāya | devān | ūrdhvaḥ | agniḥ | su-manāḥ | prātaḥ | asthāt | sam-iddhasya | ruśat | adarśi | pājaḥ | mahān | devaḥ | tamasaḥ | niḥ | amoci