Sukta 5.1
तुभ्यं भरन्ति क्षितयो यविष्ठ बलिमग्ने अन्तित ओत दूरात् । आ भन्दिष्ठस्य सुमतिं चिकिद्धि बृहत्ते अग्ने महि शर्म भद्रम् ॥
तुभ्यं॑ भरन्ति क्षि॒तयो॑ यविष्ठ ब॒लिम॑ग्ने॒ अन्ति॑त॒ ओत दू॒रात् । आ भन्दि॑ष्ठस्य सुम॒तिं चि॑किद्धि बृ॒हत्ते॑ अग्ने॒ महि॒ शर्म॑ भ॒द्रम् ॥
túbhyaṃ bharanti kṣitáyo yaviṣṭha balím agne ántita óta dūrā́t | ā́ bhandiṣṭhasya su-matíṃ cikiddhi bṛhá t te agne máhi śárma bhadrám ||
To you, O youngest Agni, the peoples bring their offering, from near and also from far. Perceive and establish in us the right-mindedness of the most bountiful; for vast and mighty is your happy shelter, O Agni, a protection that is truly beneficent.
तुभ्य॑म् । भ॒र॒न्ति॒ । क्षि॒तयः॑ । य॒वि॒ष्ठ॒ । ब॒लिम् । अ॒ग्ने॒ । अन्ति॑तः । आ । उ॒त । दू॒रात् । आ । भन्दि॑ष्ठस्य । सु॒ऽम॒तिम् । चि॒कि॒द्धि॒ । बृ॒हत् । ते॒ । अ॒ग्ने॒ । महि॑ । शर्म॑ । भ॒द्रम् ॥तुभ्यम् । भरन्ति । क्षितयः । यविष्ठ । बलिम् । अग्ने । अन्तितः । आ । उत । दूरात् । आ । भन्दिष्ठस्य । सुमतिम् । चिकिद्धि । बृहत् । ते । अग्ने । महि । शर्म । भद्रम् ॥tubhyam | bharanti | kṣitayaḥ | yaviṣṭha | balim | agne | antitaḥ | ā | uta | dūrāt | ā | bhandiṣṭhasya | su-matim | cikiddhi | bṛhat | te | agne | mahi | śarma | bhadram