Sukta 4.9
वेषि ह्यध्वरीयतामुपवक्ता जनानाम् । हव्या च मानुषाणाम् ॥
वेषि॒ ह्य॑ध्वरीय॒तामु॑पव॒क्ता जना॑नाम् । ह॒व्या च॒ मानु॑षाणाम् ॥
véṣi hí adhvarīyatā́m upa-vaktā́ jánānām | havyā́ ca mā́nuṣāṇām ||
For thou indeed seekest out and takest thy place as the near-utterer for those who do the sacred work; thou becomest the one who voices the offering, even for human beings—turning speech into effective giving.
वेषि॑ । हि । अ॒ध्व॒रि॒ऽय॒ताम् । उ॒प॒ऽव॒क्ता । जना॑नाम् । ह॒व्या । च॒ । मानु॑षाणाम् ॥वेषि । हि । अध्वरियताम् । उपवक्ता । जनानाम् । हव्या । च । मानुषाणाम् ॥veṣi | hi | adhvari-yatām | upa-vaktā | janānām | havyā | ca | mānuṣāṇām