Sukta 4.9
स मानुषीषु दूळभो विक्षु प्रावीरमर्त्यः । दूतो विश्वेषां भुवत् ॥
स मानु॑षीषु दू॒ळभो॑ वि॒क्षु प्रा॒वीरम॑र्त्यः । दू॒तो विश्वे॑षां भुवत् ॥
sa mā́nuṣīṣu dūḷábhō vikṣú prā-vī́r amártyaḥ | dūtó víśveṣāṃ bhuvat ||
He, hard to assail among human beings, becomes the forward-leading hero in the clans; immortal, he is made the messenger of all the gods—carrying between worlds the will of the Truth.
सः । मानु॑षीषु । दुः॒ऽदभः॑ । वि॒क्षु । प्र॒ऽअ॒वीः । अम॑र्त्यः । दू॒तः । विश्वे॑षाम् । भु॒व॒त् ॥सः । मानुषीषु । दुःदभः । विक्षु । प्रअवीः । अमर्त्यः । दूतः । विश्वेषाम् । भुवत् ॥saḥ | mānuṣīṣu | duḥ-dabhaḥ | vikṣu | pra-avīḥ | amartyaḥ | dūtaḥ | viśveṣām | bhuvat