Sukta 4.8
ते स्याम ये अग्नये ददाशुर्हव्यदातिभिः । य ईं पुष्यन्त इन्धते ॥
ते स्या॑म॒ ये अ॒ग्नये॑ ददा॒शुर्ह॒व्यदा॑तिभिः । य ईं॒ पुष्य॑न्त इन्ध॒ते ॥
té syāma yé agnáye dadāśúr havya-dā́tibhiḥ | yá īṃ púṣyanta indhaté ||
May we be among those who give to Agni with gifts of offering—those who foster him and kindle him into increase.
ते । स्या॒म॒ । ये । अ॒ग्नये॑ । द॒दा॒शुः । ह॒व्यऽदा॑तिभिः । ये । ई॒म् । पुष्य॑न्तः । इ॒न्ध॒ते ॥ते । स्याम । ये । अग्नये । ददाशुः । हव्यदातिभिः । ये । ईम् । पुष्यन्तः । इन्धते ॥te | syāma | ye | agnaye | dadāśuḥ | havya-dātibhiḥ | ye | īm | puṣyantaḥ | indhate