Sukta 4.8
स होता सेदु दूत्यं चिकित्वाँ अन्तरीयते । विद्वाँ आरोधनं दिवः ॥
स होता॒ सेदु॑ दू॒त्यं॑ चिकि॒त्वाँ अ॒न्तरी॑यते । वि॒द्वाँ आ॒रोध॑नं दि॒वः ॥
sá hotā́ séd u dūtyáṃ cikitvā́n antarī́yate | vidvā́n ā́-rodhanaṃ diváḥ ||
He is the Hotṛ; indeed he performs the messenger-work, discerning inwardly—knowing the ascent to Heaven.
सः । होता॑ । सः । इत् । ऊँ॒ इति॑ । दू॒त्य॑म् । चि॒कि॒त्वान् । अ॒न्तः । ई॒य॒ते॒ । वि॒द्वान् । आ॒ऽरोध॑नम् । दि॒वः ॥सः । होता । सः । इत् । ऊँ इति । दूत्यम् । चिकित्वान् । अन्तः । ईयते । विद्वान् । आरोधनम् । दिवः ॥saḥ | hotā | saḥ | it | oṃ iti | dūtyam | cikitvān | antaḥ | īyate | vidvān | ārodhanam | divaḥ