Sukta 4.8
स वेद देव आनमं देवाँ ऋतायते दमे । दाति प्रियाणि चिद्वसु ॥
स वे॑द दे॒व आ॒नमं॑ दे॒वाँ ऋ॑ताय॒ते दमे॑ । दाति॑ प्रि॒याणि॑ चि॒द्वसु॑ ॥
sá véda devá ā́-namaṃ devā́n ṛtāyaté damé | dā́ti priyā́ṇi cíd vásu ||
That god knows the act of bowing and bringing the gods into the home of the one who lives by the Truth; and he gives even the beloved plenitudes.
सः । वे॒द॒ । दे॒वः । आ॒ऽनम॑म् । दे॒वान् । ऋ॒त॒ऽय॒ते । दमे॑ । दाति॑ । प्रि॒याणि॑ । चि॒त् । वसु॑ ॥सः । वेद । देवः । आनमम् । देवान् । ऋतयते । दमे । दाति । प्रियाणि । चित् । वसु ॥saḥ | veda | devaḥ | ānamam | devān | ṛta-yate | dame | dāti | priyāṇi | cit | vasu