Sukta 4.7
आशुं दूतं विवस्वतो विश्वा यश्चर्षणीरभि । आ जभ्रुः केतुमायवो भृगवाणं विशेविशे ॥
आ॒शुं दू॒तं वि॒वस्व॑तो॒ विश्वा॒ यश्च॑र्ष॒णीर॒भि । आ ज॑भ्रुः के॒तुमा॒यवो॒ भृग॑वाणं वि॒शेवि॑शे ॥
āśúṃ dūtáṃ vivásvato víśvā yáś carṣaṇī́r abhí | ā́ jabhruḥ ketúm ā́yavo bhṛ́gavāṇaṃ viśé-viśe ||
The swift messenger of Vivasvat, who goes to all the races, the seekers have brought—his banner of light, the Bhṛgu-born—into each and every clan.
आ॒शुम् । दू॒तम् । वि॒वस्व॑तः । विश्वाः॑ । यः । च॒र्ष॒णीः । अ॒भि । आ । ज॒भ्रुः॒ । के॒तुम् । आ॒यवः॑ । भृग॑वाणम् । वि॒शेऽवि॑शे ॥आशुम् । दूतम् । विवस्वतः । विश्वाः । यः । चर्षणीः । अभि । आ । जभ्रुः । केतुम् । आयवः । भृगवाणम् । विशेविशे ॥āśum | dūtam | vivasvataḥ | viśvāḥ | yaḥ | carṣaṇīḥ | abhi | ā | jabhruḥ | ketum | āyavaḥ | bhṛgavāṇam | viśe--viśe