Sukta 4.7
तं शश्वतीषु मातृषु वन आ वीतमश्रितम् । चित्रं सन्तं गुहा हितं सुवेदं कूचिदर्थिनम् ॥
तं शश्व॑तीषु मा॒तृषु॒ वन॒ आ वी॒तमश्रि॑तम् । चि॒त्रं सन्तं॒ गुहा॑ हि॒तं सु॒वेदं॑ कूचिद॒र्थिन॑म् ॥
táṃ śaśvátīṣu mātṛ́ṣu vána ā́ vītám aśrítam | citráṃ sántam gúhā hitáṃ su-védaṃ kūcíd-arthínam ||
Him we seek and approach in the eternal Mothers, in the forest-growth of Nature: the One who has entered and taken his seat. Wondrous in being, hidden in the secret cave, he is perfectly knowable to the seeker—though he is sought only by one who truly yearns.
तम् । शश्व॑तीषु । मा॒तृषु॑ । वने॑ । आ । वी॒तम् । अश्रि॑तम् । चि॒त्रम् । सन्त॑म् । गुहा॑ । हि॒तम् । सु॒ऽवेद॑म् । कू॒चि॒त्ऽअ॒र्थिन॑म् ॥तम् । शश्वतीषु । मातृषु । वने । आ । वीतम् । अश्रितम् । चित्रम् । सन्तम् । गुहा । हितम् । सुवेदम् । कूचित्अर्थिनम् ॥tam | śaśvatīṣu | mātṛṣu | vane | ā | vītam | aśritam | citram | santam | guhā | hitam | su-vedam | kūcit-arthinam