Sukta 4.7
अग्ने कदा त आनुषग्भुवद्देवस्य चेतनम् । अधा हि त्वा जगृभ्रिरे मर्तासो विक्ष्वीड्यम् ॥
अग्ने॑ क॒दा त॑ आनु॒षग्भुव॑द्दे॒वस्य॒ चेत॑नम् । अधा॒ हि त्वा॑ जगृभ्रि॒रे मर्ता॑सो वि॒क्ष्वीड्य॑म् ॥
agné kadā́ ta ānuṣág bhúvad devásya cétanam | ádhā hí tvā jagṛbhriré mártāso víkṣv ī́ḍyam ||
O Agni, when shall there be for thee the continuous awakening of the godhead? For then indeed mortals seize thee and hold thee fast, adorable in the clans.
अग्ने॑ । क॒दा । ते॒ । आ॒नु॒षक् । भुव॑त् । दे॒वस्य॑ । चेत॑नम् । अध॑ । हि । त्वा॒ । ज॒गृ॒भ्रि॒रे । मर्ता॑सः । वि॒क्षु ईड्य॑म् ॥अग्ने । कदा । ते । आनुषक् । भुवत् । देवस्य । चेतनम् । अध । हि । त्वा । जगृभ्रिरे । मर्तासः । विक्षु ईड्यम् ॥agne | kadā | te | ānuṣak | bhuvat | devasya | cetanam | adha | hi | tvā | jagṛbhrire | matārsaḥ | vikṣu īḍyam