Sukta 4.7
सद्यो जातस्य ददृशानमोजो यदस्य वातो अनुवाति शोचिः । वृणक्ति तिग्मामतसेषु जिह्वां स्थिरा चिदन्ना दयते वि जम्भैः ॥
स॒द्यो जा॒तस्य॒ ददृ॑शान॒मोजो॒ यद॑स्य॒ वातो॑ अनु॒वाति॑ शो॒चिः । वृ॒णक्ति॑ ति॒ग्माम॑त॒सेषु॑ जि॒ह्वां स्थि॒रा चि॒दन्ना॑ दयते॒ वि जम्भै॑: ॥
sadyó jātásya dadṛśānám ójo yád asya vā́to anu-vā́ti śocíḥ | vṛṇákti tigmā́m ataseṣú jihvā́ṃ sthirā́ cíd ánnā dayate ví jámbhaiḥ ||
At once, from his birth, his power is seen: when the Wind blows along his flame, he draws out the sharp tongue; even firm foods he tears apart with his jaws.
स॒द्यः । जा॒तस्य॑ । ददृ॑शानम् । ओजः॑ । यत् । अ॒स्य॒ । वातः॑ । अ॒नु॒ऽवाति॑ । शो॒चिः । वृ॒णक्ति॑ । ति॒ग्माम् । अ॒त॒सेषु॑ । जि॒ह्वाम् । स्थि॒रा । चि॒त् । अन्ना॑ । द॒य॒ते॒ । वि । जम्भैः॑ ॥सद्यः । जातस्य । ददृशानम् । ओजः । यत् । अस्य । वातः । अनुवाति । शोचिः । वृणक्ति । तिग्माम् । अतसेषु । जिह्वाम् । स्थिरा । चित् । अन्ना । दयते । वि । जम्भैः ॥sadyaḥ | jātasya | dadṛśānam | ojaḥ | yat | asya | vātaḥ | anu-vāti | śociḥ | vṛṇakti | tigmām | ataseṣu | jihvām | sthirā | cit | annā | dayate | vi | jambhaiḥ