Sukta 4.7
वेरध्वरस्य दूत्यानि विद्वानुभे अन्ता रोदसी संचिकित्वान् । दूत ईयसे प्रदिव उराणो विदुष्टरो दिव आरोधनानि ॥
वेर॑ध्व॒रस्य॑ दू॒त्या॑नि वि॒द्वानु॒भे अ॒न्ता रोद॑सी संचिकि॒त्वान् । दू॒त ई॑यसे प्र॒दिव॑ उरा॒णो वि॒दुष्ट॑रो दि॒व आ॒रोध॑नानि ॥
véḥ adhvarásya dūtyā́ni vidvā́n ubhé antā́ ródasī sam-cikitvā́n | dūtá ī́yase pra-díva urāṇó vidúṣ-ṭaro divá ā́-rodhanā́ni ||
Knowing the embassies of the sacrifice, comprehending the two ends of Heaven and Earth, you go as the messenger—ranging out from the luminous height—most in knowledge, knowing the ascents and passages of the Heaven.
वेः । अ॒ध्व॒रस्य॑ । दू॒त्या॑नि । वि॒द्वान् । उ॒भे इति॑ । अ॒न्तरिति॑ । रोद॑सी॒ इति॑ । स॒म्ऽचि॒कि॒त्वान् । दू॒तः । ई॒य॒से॒ । प्र॒ऽदिवः॑ । उ॒रा॒णः । वि॒दुःऽत॑रः । दि॒वः । आ॒ऽरोध॑नानि ॥वेः । अध्वरस्य । दूत्यानि । विद्वान् । उभे इति । अन्तरिति । रोदसी इति । सम्चिकित्वान् । दूतः । ईयसे । प्रदिवः । उराणः । विदुःतरः । दिवः । आरोधनानि ॥veḥ | adhvarasya | dūtyāni | vidvān | ubhe iti | antariti | rodasī iti | sam-cikitvān | dūtaḥ | īyase | pra-divaḥ | urāṇaḥ | viduḥ-taraḥ | divaḥ | ārodhanāni