Sukta 4.7
तृषु यदन्ना तृषुणा ववक्ष तृषुं दूतं कृणुते यह्वो अग्निः । वातस्य मेळिं सचते निजूर्वन्नाशुं न वाजयते हिन्वे अर्वा ॥
तृ॒षु यदन्ना॑ तृ॒षुणा॑ व॒वक्ष॑ तृ॒षुं दू॒तं कृ॑णुते य॒ह्वो अ॒ग्निः । वात॑स्य मे॒ळिं स॑चते नि॒जूर्व॑न्ना॒शुं न वा॑जयते हि॒न्वे अर्वा॑ ॥
tṛṣú yád ánnā tṛṣúṇā vavákṣa tṛṣúṃ dūtáṃ kṛṇute yáhvo agníḥ | vā́tasya meḷíṃ sacate ni-jū́rvan āśúṃ ná vājayate hinvé árvā ||
When he has grown among the foods by his burning thirst, the impetuous Agni makes himself a thirsty messenger. He joins the onrush of the Wind; pressing forward, he drives like a swift steed for the winning of plenitude.
तृ॒षु । यत् । अन्ना॑ । तृ॒षुणा॑ । व॒वक्ष॑ । तृ॒षुम् । दू॒तम् । कृ॒णु॒ते॒ । य॒ह्वः । अ॒ग्निः । वात॑स्य । मे॒ळिम् । स॒च॒ते॒ । नि॒ऽजूर्व॑न् । आ॒शुम् । न । वा॒ज॒य॒ते॒ । हि॒न्वे । अर्वा॑ ॥तृषु । यत् । अन्ना । तृषुणा । ववक्ष । तृषुम् । दूतम् । कृणुते । यह्वः । अग्निः । वातस्य । मेळिम् । सचते । निजूर्वन् । आशुम् । न । वाजयते । हिन्वे । अर्वा ॥tṛṣu | yat | annā | tṛṣuṇā | vavakṣa | tṛṣum | dūtam | kṛṇute | yahvaḥ | agniḥ | vātasya | meḷim | sacate | ni-jūrvan | āśum | na | vājayate | hinve | arvā