Sukta 4.6
तव त्ये अग्ने हरितो घृतस्ना रोहितास ऋज्वञ्चः स्वञ्चः । अरुषासो वृषण ऋजुमुष्का आ देवतातिमह्वन्त दस्माः ॥
तव॒ त्ये अ॑ग्ने ह॒रितो॑ घृत॒स्ना रोहि॑तास ऋ॒ज्वञ्च॒: स्वञ्च॑: । अ॒रु॒षासो॒ वृष॑ण ऋजुमु॒ष्का आ दे॒वता॑तिमह्वन्त द॒स्माः ॥
táva tyé agne haríto ghṛtá-snā rohítāsa ṛjú-añcaḥ sv-áñcaḥ | aruṣā́so vṛ́ṣaṇa ṛjú-muṣkā ā́ devá-tātim ahvanta dasmā́ḥ ||
Thine, O Agni, are those bay steeds, bathed in ghee—ruddy, straight-going and rightly-turned. The tawny, puissant ones with firm virility call the host of the gods; wondrous are they in their action.
तव॑ । त्ये । अ॒ग्ने॒ । ह॒रितः॑ । घृ॒त॒ऽस्नाः । रोहि॑तासः । ऋ॒जु॒ऽअञ्चः॑ । सु॒ऽअञ्चः॑ । अ॒रु॒षासः॑ । वृष॑णः । ऋ॒जु॒ऽमु॒ष्काः । आ । दे॒वऽता॑तिम् । अ॒ह्व॒न्त॒ । द॒स्माः ॥तव । त्ये । अग्ने । हरितः । घृतस्नाः । रोहितासः । ऋजुअञ्चः । सुअञ्चः । अरुषासः । वृषणः । ऋजुमुष्काः । आ । देवतातिम् । अह्वन्त । दस्माः ॥tava | tye | agne | haritaḥ | ghṛta-snāḥ | rohitāsaḥ | ṛju-añcaḥ | su-añcaḥ | aruṣāsaḥ | vṛṣaṇaḥ | ṛju-muṣkāḥ | ā | deva-tātim | ahvanta | dasmāḥ