Sukta 4.6
ये ह त्ये ते सहमाना अयासस्त्वेषासो अग्ने अर्चयश्चरन्ति । श्येनासो न दुवसनासो अर्थं तुविष्वणसो मारुतं न शर्धः ॥
ये ह॒ त्ये ते॒ सह॑माना अ॒यास॑स्त्वे॒षासो॑ अग्ने अ॒र्चय॒श्चर॑न्ति । श्ये॒नासो॒ न दु॑वस॒नासो॒ अर्थं॑ तुविष्व॒णसो॒ मारु॑तं॒ न शर्ध॑: ॥
yé ha tyé té sáhamānā ayā́s tveṣā́so agne arcáyaś cáranti | śyenā́so ná duvasanā́so árthaṃ tuvi-svaṇáso mā́rutaṃ ná śárdhaḥ ||
Those indeed—thine—enduring without weariness, O Agni, fierce, move as flames of praise. Like falcons pressing toward the goal, loud-roaring like a Marut host, they seek the intended gain.
ये । ह॒ । त्ये । ते॒ । सह॑मानाः । अ॒यासः॑ । त्वे॒षासः॑ । अ॒ग्ने॒ । अ॒र्चयः॑ । चर॑न्ति । श्ये॒नासः॑ । न । दु॒व॒स॒नासः॑ । अर्थ॑म् । तु॒वि॒ऽस्व॒णसः॑ । मारु॑तम् । न । शर्धः॑ ॥ये । ह । त्ये । ते । सहमानाः । अयासः । त्वेषासः । अग्ने । अर्चयः । चरन्ति । श्येनासः । न । दुवसनासः । अर्थम् । तुविस्वणसः । मारुतम् । न । शर्धः ॥ye | ha | tye | te | sahamānāḥ | ayāsaḥ | tveṣāsaḥ | agne | arcayaḥ | caranti | śyenāsaḥ | na | duvasanāsaḥ | artham | tuvi-svaṇasaḥ | mārutam | na | śardhaḥ