Sukta 4.6
स्तीर्णे बर्हिषि समिधाने अग्ना ऊर्ध्वो अध्वर्युर्जुजुषाणो अस्थात् । पर्यग्निः पशुपा न होता त्रिविष्ट्येति प्रदिव उराणः ॥
स्ती॒र्णे ब॒र्हिषि॑ समिधा॒ने अ॒ग्ना ऊ॒र्ध्वो अ॑ध्व॒र्युर्जु॑जुषा॒णो अ॑स्थात् । पर्य॒ग्निः प॑शु॒पा न होता॑ त्रिवि॒ष्ट्ये॑ति प्र॒दिव॑ उरा॒णः ॥
stīrṇé bárhiṣi samidhāné agnáu ūrdhvó adhvaryúr jujuṣāṇó asthāt | pár y agníḥ paśu-pā́ ná hotā́ tri-viṣṭy éti pra-dívaḥ urāṇáḥ ||
On the strewn sacred grass, when Agni is kindled, the Adhvaryu rises up, accepting and serving. Agni moves around as the guardian of the life-force, as Hotṛ; he goes to the triple seat, ardent, to the heights of heaven.
स्ती॒र्णे । ब॒र्हिषि॑ । स॒म्ऽइ॒धा॒ने । अ॒ग्नौ । ऊ॒र्ध्वः । अ॒ध्व॒र्युः । जु॒जु॒षा॒णः । अ॒स्था॒त् । परि॑ । अ॒ग्निः । प॒शु॒ऽपाः । न । होता॑ । त्रि॒ऽवि॒ष्टि । ए॒ति॒ । प्र॒ऽदिवः॑ । उ॒रा॒णः ॥स्तीर्णे । बर्हिषि । सम्इधाने । अग्नौ । ऊर्ध्वः । अध्वर्युः । जुजुषाणः । अस्थात् । परि । अग्निः । पशुपाः । न । होता । त्रिविष्टि । एति । प्रदिवः । उराणः ॥stīrṇe | barhiṣi | sam-idhāne | agnau | ūrdhvaḥ | adhvaryuḥ | jujuṣāṇaḥ | asthāt | pari | agniḥ | paśu-pāḥ | na | hotā | tri-viṣṭi | eti | pra-divaḥ | urāṇaḥ