Sukta 4.6
परि त्मना मितद्रुरेति होताग्निर्मन्द्रो मधुवचा ऋतावा । द्रवन्त्यस्य वाजिनो न शोका भयन्ते विश्वा भुवना यदभ्राट् ॥
परि॒ त्मना॑ मि॒तद्रु॑रेति॒ होता॒ग्निर्म॒न्द्रो मधु॑वचा ऋ॒तावा॑ । द्रव॑न्त्यस्य वा॒जिनो॒ न शोका॒ भय॑न्ते॒ विश्वा॒ भुव॑ना॒ यदभ्रा॑ट् ॥
pári tmanā́ mitá-druḥ eti hotā́gnír mandró mádhu-vacā ṛtá-vā́ | drávanty asya vājíno ná śókā bháyante víśvā bhúvanā yád abhrā́ṭ ||
He moves all around by his own self-law, Agni the Priest, the rapturous one with honeyed speech, the bearer of the Truth. For him the griefs flee away like beaten steeds; all the worlds are made to fear when he blazes forth.
परि॑ । त्मना॑ । मि॒तऽद्रुः॑ । ए॒ति॒ । होता॑ । अ॒ग्निः । म॒न्द्रः । मधु॑ऽवचाः । ऋ॒तऽवा॑ । द्रव॑न्ति । अ॒स्य॒ । वा॒जिनः॑ । न । शोकाः॑ । भय॑न्ते । विश्वा॑ । भुव॑ना । यत् । अभ्रा॑ट् ॥परि । त्मना । मितद्रुः । एति । होता । अग्निः । मन्द्रः । मधुवचाः । ऋतवा । द्रवन्ति । अस्य । वाजिनः । न । शोकाः । भयन्ते । विश्वा । भुवना । यत् । अभ्राट् ॥pari | tmanā | mita-druḥ | eti | hotā | agniḥ | mandraḥ | madhu-vacāḥ | ṛta-vā | dravanti | asya | vājinaḥ | na | śokāḥ | bhayante | viśvā | bhuvanā | yat | abhrāṭ